मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६०, ऋक् ४

संहिता

ता हु॑वे॒ ययो॑रि॒दं प॒प्ने विश्वं॑ पु॒रा कृ॒तम् ।
इ॒न्द्रा॒ग्नी न म॑र्धतः ॥

पदपाठः

ता । हु॒वे॒ । ययोः॑ । इ॒दम् । प॒प्ने । विश्व॑म् । पु॒रा । कृ॒तम् ।
इ॒न्द्रा॒ग्नी इति॑ । न । म॒र्ध॒तः॒ ॥

सायणभाष्यम्

ता तौ तादृशाविन्द्राग्नी हुवे आह्वये ययोरिन्द्राग्न्योः पुरापूर्वस्मिन्कालेकृतंविश्वंसर्वंइदं पूर्वास्वृक्षुकीर्तितंवीर्यंपप्नेपन्यते ऋषिभिः स्तूयते ताविन्द्राग्नीहुवइत्यन्वयः तौचेन्द्राग्नीनमर्धतः स्तोतॄन् नहिंस्तः अतः अस्मानप्याहूतोरक्षतामितिभावः मर्धतिर्हिंसाकर्मा ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७