मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६०, ऋक् ७

संहिता

इन्द्रा॑ग्नी यु॒वामि॒मे॒३॒॑ऽभि स्तोमा॑ अनूषत ।
पिब॑तं शम्भुवा सु॒तम् ॥

पदपाठः

इन्द्रा॑ग्नी॒ इति॑ । यु॒वाम् । इ॒मे । अ॒भि । स्तोमाः॑ । अ॒नू॒ष॒त॒ ।
पिब॑तम् । श॒म्ऽभु॒वा॒ । सु॒तम् ॥

सायणभाष्यम्

हेइन्द्राग्नी युवांइमेस्तोमाःस्तोतारः अभ्यनूषत अभिष्टुवन्ति हेशंभुवा सुखस्यभावयिताराविन्द्राग्नी सुतमभिषुतमस्मदीयंसोमंपिबतं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८