मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६०, ऋक् ८

संहिता

या वां॒ सन्ति॑ पुरु॒स्पृहो॑ नि॒युतो॑ दा॒शुषे॑ नरा ।
इन्द्रा॑ग्नी॒ ताभि॒रा ग॑तम् ॥

पदपाठः

याः । वा॒म् । सन्ति॑ । पु॒रु॒ऽस्पृहः॑ । नि॒ऽयुतः॑ । दा॒शुषे॑ । न॒रा॒ ।
इन्द्रा॑ग्नी॒ इति॑ । ताभिः॑ । आ । ग॒त॒म् ॥

सायणभाष्यम्

हेनरानेताराविन्द्राग्नी वांयुवयोःस्वभूताःपुरुस्पृहःपुरुभिर्बहुभिः स्पृहणीयाः दाशुषेहवींषि दत्तवतेयजमानार्थंउत्पन्नाः या नियुतोश्वाः सन्ति हेइन्द्राग्नी ताभिर्नियुद्भिरागतंआगच्छतं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८