मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६०, ऋक् १०

संहिता

तमी॑ळिष्व॒ यो अ॒र्चिषा॒ वना॒ विश्वा॑ परि॒ष्वज॑त् ।
कृ॒ष्णा कृ॒णोति॑ जि॒ह्वया॑ ॥

पदपाठः

तम् । ई॒ळि॒ष्व॒ । यः । अ॒र्चिषा॑ । वना॑ । विश्वा॑ । प॒रि॒ऽस्वज॑त् ।
कृ॒ष्णा । कृ॒णोति॑ । जि॒ह्वया॑ ॥

सायणभाष्यम्

हेस्तोतः तमग्निंईळिष्वस्तुहि योग्निः अर्चिषाज्वालारूपेणतेजसाविशासर्वाणिवनान्यरण्यानिपरिष्वजत् परिष्वजति परितोवेष्टयति यश्चतानिवनानिजिह्वयाज्वालयादग्धाकृष्णाकृष्णवर्णानिकृणोतिकरोति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८