मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६०, ऋक् १२

संहिता

ता नो॒ वाज॑वती॒रिष॑ आ॒शून्पि॑पृत॒मर्व॑तः ।
इन्द्र॑म॒ग्निं च॒ वोळ्ह॑वे ॥

पदपाठः

ता । नः॒ । वाज॑ऽवतीः । इषः॑ । आ॒शून् । पि॒पृ॒त॒म् । अर्व॑तः ।
इन्द्र॑म् । अ॒ग्निम् । च॒ । वोळ्ह॑वे ॥

सायणभाष्यम्

हेइन्द्राग्नी ता तौयुवांवाजवतीः अन्नवतीः इषः इष्यमाणावृष्टीःयद्वा वाजोबलंतद्वतीरिषोन्नानि आशून्शीघ्रगान् अर्वतोश्वांश्चनोस्मभ्यं- पिपृतंपूरयतं प्रयच्छतम् । किमर्थं इन्दमग्निंचयुवां वोह्ळवेवोढुं हविर्भिःपापयितुं ॥ १२ ॥ ऎन्द्राग्नस्यपशोर्हविषोनुवाक्यउभावामित्येषा सूत्रितंच—उभावामिन्द्राग्नीआहुवध्यैशुचिंनुस्तोमंनवजातमद्येति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९