मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६०, ऋक् १३

संहिता

उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑ ।
उ॒भा दा॒तारा॑वि॒षां र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥

पदपाठः

उ॒भा । वा॒म् । इ॒न्द्रा॒ग्नी॒ इति॑ । आ॒ऽहु॒वध्यै॑ । उ॒भा । राध॑सः । स॒ह । मा॒द॒यध्यै॑ ।
उ॒भा । दा॒तारौ॑ । इ॒षाम् । र॒यी॒णाम् । उ॒भा । वाज॑स्य । सा॒तये॑ । हु॒वे॒ । वा॒म् ॥

सायणभाष्यम्

हेइन्द्राग्नी उभाउभौसंहत्यवर्तमानौवांयुवांहुवेआह्वयामि किमर्थंआहुवध्यै आभिमुख्येनहोतुं तथाउभाउभौयुवामाह्वये राधसः राधसाराधकेनहविषासहयुगपदेवमादयध्यै मादयितुंतर्पयितुंसर्वेषुदेवेषुसत्सुआवयोराह्वानेकिंकारणमितिचेदुच्यते—उभाउभौतौयुवां इषामन्नानांरयीणां धनानांचदातारौस्थः अतःकारणात्उभाउभौ वांयुवां वाजस्यान्नस्यसातये संभजनायहुवे आह्वये ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९