मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६०, ऋक् १४

संहिता

आ नो॒ गव्ये॑भि॒रश्व्यै॑र्वस॒व्यै॒३॒॑रुप॑ गच्छतम् ।
सखा॑यौ दे॒वौ स॒ख्याय॑ श॒म्भुवे॑न्द्रा॒ग्नी ता ह॑वामहे ॥

पदपाठः

आ । नः॒ । गव्ये॑भिः । अश्व्यैः॑ । व॒स॒व्यैः॑ । उप॑ । ग॒च्छ॒त॒म् ।
सखा॑यौ । दे॒वौ । स॒ख्याय॑ । श॒म्ऽभुवा॑ । इ॒न्द्रा॒ग्नी इति॑ । ता । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

हेइन्द्राग्नी गव्येभिर्गोसमूहैः अश्व्यैरश्वसमूहैः वसव्यैर्वसुसमूहैश्चसार्धं नोस्मानाभिमुख्येनउपगच्छतं शेषःपरोक्षकृतः सखायौसमान- ख्यानौदेवौ दानादिगुणयुक्तौ शंभुवा शंभुवौ सुखस्यभावयितारौ ता तादृशाविन्द्राग्नी सख्यायसखित्वार्थंवयंहवामहे आह्वयामहे ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९