मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७५, ऋक् १०

संहिता

ब्राह्म॑णास॒ः पित॑र॒ः सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा॑ ।
पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घशं॑स ईशत ॥

पदपाठः

ब्राह्म॑णासः । पित॑रः । सोम्या॑सः । शि॒वे इति॑ । नः॒ । द्यावा॑पृथि॒वी इति॑ । अ॒ने॒हसा॑ ।
पू॒षा । नः॒ । पा॒तु॒ । दुः॒ऽइ॒तात् । ऋ॒त॒ऽवृ॒धः॒ । रक्ष॑ । माकिः॑ । नः॒ । अ॒घऽशं॑सः । ई॒श॒त॒ ॥

सायणभाष्यम्

ब्राह्मणासो हे ब्राह्मणाः पितरः ऋतावृधः ऋतस्य यज्ञस्य वा वर्धयितारः सोम्यासः सोमार्हाः सोमसंपादिनो वा तथाचयास्कः-सोम्याः सोमसंपादिनइति नोस्मान् रक्षत रक्षेत्युपरितनमेकवचनान्तं सत्यपिव्यवधाने बहुवचनान्ततया विपरिणतं सदत्रसंबध्यते अध्याहार- स्याति जघन्यत्वात् । किं च अनेहसा अपापे द्यावापृथिवी द्यावापृथिव्यौ नोस्माकं शिवे सुखकृतौ भवतां पूषा पोषको देवोपि नोस्मान् दुरितात् दुष्कृतात्पातु रक्षतु । नोस्माकमघशंसः पापशंसः शत्रुरपिमाकिरीशत माईष्ट ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०