मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७५, ऋक् १६

संहिता

अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑संशिते ।
गच्छा॒मित्रा॒न्प्र प॑द्यस्व॒ मामीषां॒ कं च॒नोच्छि॑षः ॥

पदपाठः

अव॑ऽसृष्टा । परा॑ । प॒त॒ । शर॑व्ये । ब्रह्म॑ऽसंशिते ।
गच्छ॑ । अ॒मित्रा॑न् । प्र । प॒द्य॒स्व॒ । मा । अ॒मीषा॑म् । कम् । च॒न । उत् । शि॒षः॒ ॥

सायणभाष्यम्

ब्रह्मसंशिते मंत्रेण तीक्ष्णीकृते शरव्ये हिंसाकुशले इषो त्वं अवसृष्टा क्षिप्ता परापत परागच्छ इतोदेशाद्गच्छ च अमित्रान् हिंसकान् प्रपद्यस्व प्राप्नुहि च अमीषाममित्राणां मध्ये कंचन कंचिदपि माउच्छिषः अवशिष्टं माकरु ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२