मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६३, ऋक् २

संहिता

उद्वे॑ति प्रसवी॒ता जना॑नां म॒हान्के॒तुर॑र्ण॒वः सूर्य॑स्य ।
स॒मा॒नं च॒क्रं प॑र्या॒विवृ॑त्स॒न्यदे॑त॒शो वह॑ति धू॒र्षु यु॒क्तः ॥

पदपाठः

उत् । ऊं॒ इति॑ । ए॒ति॒ । प्र॒ऽस॒वि॒ता । जना॑नाम् । म॒हान् । के॒तुः । अ॒र्ण॒वः । सूर्य॑स्य ।
स॒मा॒नम् । च॒क्रम् । प॒रि॒ऽआ॒विवृ॑त्सन् । यत् । ए॒त॒शः । वह॑ति । धूः॒ऽसु । यु॒क्तः ॥

सायणभाष्यम्

अयं सूर्यस्य सूर्यः विभक्तिव्यत्ययः उद्वेति उद्गच्छति कीदृशोयं जनानां सर्वेषां प्रसविता सर्वेषु कर्मस्वनुज्ञाता महान् पूज्यः केतुः सर्वस्य प्रज्ञापकः अर्णवः उदकप्रदः । किं कुर्वन्नुदेतीति उच्यते समानं सर्वेषामेकरूपं एकमेवचक्रं रथाङ्गं चरणशीलं रथं वा पर्याविवृत्सन् पर्या- वर्तयितुमिच्छन् यद्रथचक्रं धूर्ष रथस्य युक्त एतशः एतशवर्णो हरितवर्णोश्वोवहति एकोअश्वोवहतिसप्तनामेत्युक्तम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः