अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॒ स्तोमं॑ देव॒यन्तो॒ दधा॑नाः ।
पु॒रु॒दंसा॑ पुरु॒तमा॑ पुरा॒जाम॑र्त्या हवते अ॒श्विना॒ गीः ॥
अता॑रिष्म । तम॑सः । पा॒रम् । अ॒स्य । प्रति॑ । स्तोम॑म् । दे॒व॒ऽयन्तः॑ । दधा॑नाः ।
पु॒रु॒ऽदंसा॑ । पु॒रु॒ऽतमा॑ । पु॒रा॒ऽजा । अम॑र्त्या । ह॒व॒ते॒ । अ॒श्विना॑ । गीः ॥
अस्य तमसोज्ञानस्य तत्कार्यस्य जननमरणवतः संसारदुःखस्य अथवा प्रकृतत्वात् प्रयोगविषयाज्ञानस्य पारं अतारिष्म तीर्णाः स्म । किं कुर्वन्तः देवयन्तो देवकामाः स्तोमं स्तुतिं पतिदधानाः देवेषु कुर्वाणाः पुरुदंसा बहुकर्माणौ पुरुतमा प्रभूततमौ पुराजा पूर्वजातौ अतएवामर्त्या अमरणधर्माणावश्विनाश्विनौ गीर्गरिता स्तोता वसिष्ठोहवते स्तौति आह्वयति वा ॥ १ ॥