अहे॑म य॒ज्ञं प॒थामु॑रा॒णा इ॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् ।
श्रु॒ष्टी॒वेव॒ प्रेषि॑तो वामबोधि॒ प्रति॒ स्तोमै॒र्जर॑माणो॒ वसि॑ष्ठः ॥
अहे॑म । य॒ज्ञम् । प॒थाम् । उ॒रा॒णाः । इ॒माम् । सु॒ऽवृ॒क्तिम् । वृ॒ष॒णा॒ । जु॒षे॒था॒म् ।
श्रु॒ष्टी॒वाऽइ॑व । प्रऽइ॑षितः । वा॒म् । अ॒बो॒धि॒ । प्रति॑ । स्तोमैः॑ । जर॑माणः । वसि॑ष्ठः ॥
उराणा उरुस्तोत्रंकुर्वाणाः स्तोतारोवयं पथां पततां आगच्छताम् देवानामर्थाय यज्ञं यागं तत्साधनं हविर्वा अहेम वर्धयेम हे वृषणा वर्षकौ कामानां इमां सुवृक्तिं शोभनस्तुतिं जुषेथां सेवेथाम् वां युवां श्रुष्टीवेव श्रुष्टीति क्षिप्रनाम क्षिप्रगन्ता दूतइव प्रेषितोहं अबोधि बोधयति शीघ्रं गन्तव्यमिति । किं कुर्वन् स्तोमैः स्तोत्रैः प्रतिजरमाणः प्रतिस्तुवन् कः वसिष्ठोहं अबोधीति ॥ ३ ॥