मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७५, ऋक् ४

संहिता

ए॒षा स्या यु॑जा॒ना प॑रा॒कात्पञ्च॑ क्षि॒तीः परि॑ स॒द्यो जि॑गाति ।
अ॒भि॒पश्य॑न्ती व॒युना॒ जना॑नां दि॒वो दु॑हि॒ता भुव॑नस्य॒ पत्नी॑ ॥

पदपाठः

ए॒षा । स्या । यु॒जा॒ना । प॒रा॒कात् । पञ्च॑ । क्षि॒तीः । परि॑ । स॒द्यः । जि॒गा॒ति॒ ।
अ॒भि॒ऽपश्य॑न्ती । व॒युना॑ । जना॑नाम् । दि॒वः । दु॒हि॒ता । भुव॑नस्य । पत्नी॑ ॥

सायणभाष्यम्

एषा स्या सोषाः पराकात् दूरदेशात् दूरे स्थितापि युजाना उद्योगं कुर्वाणा प्रकाशाय पञ्चक्षितीः निषादपञ्चमाश्चत्वारोवर्णाः सद्यः परिजिगाति परिगच्छति किंकुर्वती जनानां प्राणिनां वयुना प्रज्ञानानि अभिपश्यन्ती साक्षित्वेनावलोकयन्ती कीदृशी सादिवोदुहिता दुहितृस्थानीया भवनस्य भूतजातस्य पत्नी पालयित्री परिजिगातीत्यन्वयः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२