मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९३, ऋक् १

संहिता

शुचिं॒ नु स्तोमं॒ नव॑जातम॒द्येन्द्रा॑ग्नी वृत्रहणा जु॒षेथा॑म् ।
उ॒भा हि वां॑ सु॒हवा॒ जोह॑वीमि॒ ता वाजं॑ स॒द्य उ॑श॒ते धेष्ठा॑ ॥

पदपाठः

शुचि॑म् । नु । स्तोम॑म् । नव॑ऽजातम् । अ॒द्य । इन्द्रा॑ग्नी॒ इति॑ । वृ॒त्र॒ऽह॒ना॒ । जु॒षेथा॑म् ।
उ॒भा । हि । वा॒म् । सु॒ऽहवा॑ । जोह॑वीमि । ता । वाज॑म् । स॒द्यः । उ॒श॒ते । धेष्ठा॑ ॥

सायणभाष्यम्

हे वृत्रहणा वृत्राणां शत्रूणां हन्ताराविन्द्राग्नी शुचिं शुद्धं निरवद्यं तवजातमिदानीमुत्पन्नं स्तोमं मदीयं स्तोत्रं अद्यास्मिन्काले नु क्षिप्रं जुषेथां सेवेथाम् हि यस्मात्सुहवा सुखमाह्वातुं शक्यौ उभा उभौ वां युवां जोहवीमि पुनः पुनराह्वयामि अतआगत्य सेवेथामित्यर्थः । किञ्च ता तौ तथाविधौ युवां उशते कामयमानाय यजमानाय वाजमन्नं बलं वा सद्यस्तदानीमेव शीघ्रं धेष्ठा धातृतमौ भवतम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५