मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९३, ऋक् २

संहिता

ता सा॑न॒सी श॑वसाना॒ हि भू॒तं सा॑कं॒वृधा॒ शव॑सा शूशु॒वांसा॑ ।
क्षय॑न्तौ रा॒यो यव॑सस्य॒ भूरे॑ः पृ॒ङ्क्तं वाज॑स्य॒ स्थवि॑रस्य॒ घृष्वे॑ः ॥

पदपाठः

ता । सा॒न॒सी इति॑ । श॒व॒सा॒ना॒ । हि । भू॒तम् । सा॒क॒म्ऽवृधा॑ । शव॑सा । शू॒शु॒ऽवांसा॑ ।
क्षय॑न्तौ । रा॒यः । यव॑सस्य । भूरेः॑ । पृ॒ङ्क्तम् । वाज॑स्य । स्थवि॑रस्य । घृष्वेः॑ ॥

सायणभाष्यम्

हे इन्द्राग्नी ता तौ तादृशौ सानसी सर्वैः संभजनीयौ युवां शवसाना शवोबलं तद्वदाचरन्तौ हि खलु भूतं बलमिव शत्रूणां भंजकावास्तामित्यर्थः । कीदृशौ सन्तौ साकं वृधासह प्रवृद्धौ शवसा बलेन शूश्कुवांसा वर्धमानौ तथा रायोधनस्य भूरेर्बहुलस्य यवसस्य अन्नस्य क्षयन्तावीश्वरौ एवंविधौ युवां स्थविरस्य स्थूलस्य घृष्वेः शत्रूणां घर्षकस्य वाजस्यान्नस्य क्रियाग्रहणमपि कर्तव्यमिति कर्मणः सम्प्रदानत्वाच्चतुर्थ्यर्थेषष्ठी । ईदृशमन्नं पृंक्तं संयोजयतं अस्मभ्यं प्रयच्छतमित्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५