मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९३, ऋक् ३

संहिता

उपो॑ ह॒ यद्वि॒दथं॑ वा॒जिनो॒ गुर्धी॒भिर्विप्रा॒ः प्रम॑तिमि॒च्छमा॑नाः ।
अर्व॑न्तो॒ न काष्ठां॒ नक्ष॑माणा इन्द्रा॒ग्नी जोहु॑वतो॒ नर॒स्ते ॥

पदपाठः

उपो॒ इति॑ । ह॒ । यत् । वि॒दथ॑म् । वा॒जिनः॑ । गुः । धी॒भिः । विप्राः॑ । प्रऽम॑तिम् । इ॒च्छमा॑नाः ।
अर्व॑न्तः । न । काष्ठा॑म् । नक्ष॑माणाः । इ॒न्द्रा॒ग्नी इति॑ । जोहु॑वतः । नरः॑ । ते ॥

सायणभाष्यम्

वाजिनो हविष्मन्तो विप्रा मेधाविनः प्रमति प्रकृष्टां मतिं इन्द्राग्न्योरनुग्रहबुद्धिं इच्छमाना आत्मनइच्छन्तः यत् ये यजमानाः विदथं विदंति जानन्ति देवान् तत्र यष्टव्यत्वेनेति विदथोयज्ञः तं धीभिः कर्मभिः बुद्धिभिर्वा उपोगुः उपगच्छन्ति उइतिपूरकः ते नरः कर्मणां नेतारोजनाः अर्वन्तो न काष्ठाम् । यथा अश्वाः शीघ्रं युद्धभूमिं व्याप्नुवन्ति तथा नक्षमाणा ऎन्द्राग्नानि कर्माणि व्याप्नुवन्तः इन्द्राग्नी इन्द्रमग्निं च जोहुवतः पुनःपुनराह्वयन्तोभवंति ॥ ३ ॥ अमावास्यायां ऎन्द्राग्नस्य हविषः गीर्भिरित्येषा याज्या सूत्रितंच-इन्द्राग्नीअवसागतं गीर्भिर्विप्रः प्रमतिमिच्छमानइति । ऎन्द्राग्नेपशौ पुरोडाशस्यैषैव याज्या सूत्रंतूदात्दृतम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५