मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९३, ऋक् ४

संहिता

गी॒र्भिर्विप्र॒ः प्रम॑तिमि॒च्छमा॑न॒ ईट्टे॑ र॒यिं य॒शसं॑ पूर्व॒भाज॑म् ।
इन्द्रा॑ग्नी वृत्रहणा सुवज्रा॒ प्र नो॒ नव्ये॑भिस्तिरतं दे॒ष्णैः ॥

पदपाठः

गीः॒ऽभिः । विप्रः॑ । प्रऽम॑तिम् । इ॒च्छमा॑नः । ईट्टे॑ । र॒यिम् । य॒शस॑म् । पू॒र्व॒ऽभाज॑म् ।
इन्द्रा॑ग्नी॒ इति॑ । वृ॒त्र॒ऽह॒ना॒ । सु॒ऽव॒ज्रा॒ । प्र । नः॒ । नव्ये॑भिः । ति॒र॒त॒म् । दे॒ष्णैः ॥

सायणभाष्यम्

हे इन्द्राग्नी प्रमतिं युवयोरनुग्रहबुद्धिं इच्छमान इच्छन् विप्रोमेधावी वसिष्ठः यशसं यशसायुक्तं पूर्वभाजं पूर्वमेवसंभजनीयं रयिं धन- मुद्दिश्य गीर्भिःस्तुतिभिः ईट्टे युवां स्तौति हे वृत्रहणा वृत्रस्याहन्तारौ सुवज्रा शोभनायुधाविन्द्राग्नी नव्येभिर्नवतरैः प्रशस्तैः देष्णैर्दात- व्यैर्धनैर्नारमान् प्रतिरतं प्रवर्धयतम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५