मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९३, ऋक् ५

संहिता

सं यन्म॒ही मि॑थ॒ती स्पर्ध॑माने तनू॒रुचा॒ शूर॑साता॒ यतै॑ते ।
अदे॑वयुं वि॒दथे॑ देव॒युभि॑ः स॒त्रा ह॑तं सोम॒सुता॒ जने॑न ॥

पदपाठः

सम् । यत् । म॒ही इति॑ । मि॒थ॒ती इति॑ । स्पर्ध॑माने॒ इति॑ । त॒नू॒ऽरुचा॑ । शूर॑ऽसाता । यतै॑ते॒ इति॑ ।
अदे॑वऽयुम् । वि॒दथे॑ । दे॒व॒युऽभिः॑ । स॒त्रा । ह॒त॒म् । सो॒म॒ऽसुता॑ । जने॑न ॥

सायणभाष्यम्

मही महत्यौ मिथती परस्परं हिंसन्त्यौ यद्वा मेथतिराक्रोशकर्मा परस्परमाक्रोशंत्यौ स्पर्धमाने स्पर्धां कुर्वंत्यौ तनूरुचा आत्मीयेन तेजसा संपन्ने यत् ये शूरसाता शूरसातौ रणे यतैते जेतुं यत्नं कुर्वन्त्यौ वैरिसेने देवयुभिः देवान्कामयमानैः सह विदथे यज्ञे अदेवयुं सत्रा हतं संततं हिंस्तम् । तथा सोमसुता सोममभिषुण्वता जनेन यजमानसंघेन असोमसुतं जनं हिंस्तं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५