मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९३, ऋक् ६

संहिता

इ॒मामु॒ षु सोम॑सुति॒मुप॑ न॒ एन्द्रा॑ग्नी सौमन॒साय॑ यातम् ।
नू चि॒द्धि प॑रिम॒म्नाथे॑ अ॒स्माना वां॒ शश्व॑द्भिर्ववृतीय॒ वाजै॑ः ॥

पदपाठः

इ॒माम् । ऊं॒ इति॑ । सु । सोम॑ऽसुति॑म् । उप॑ । नः॒ । आ । इ॒न्द्रा॒ग्नी॒ इति॑ । सौ॒म॒न॒साय॑ । या॒त॒म् ।
नु । चि॒त् । हि । प॒रि॒म॒म्नाथे॒ इति॑ प॒रि॒ऽम॒म्नाथे॑ । अ॒स्मान् । आ । वा॒म् । शश्व॑त्ऽभिः । व॒वृ॒ती॒य॒ । वाजैः॑ ॥

सायणभाष्यम्

हे इन्द्राग्नी इमामु इमामेव नोस्मदीयां सोमसुतिं सोमाभिषवक्रियां सौमनसाय सुमनसोभावाय सु सुष्ठु उपायातम् उपागच्छतम् । अपिच युवां अस्मान् परित्यज्य नूचित् नैव मम्नाथे अन्यान् न मन्येथे । अस्मानेव सर्वदा बुध्येथे । हि यस्मादेवं तस्मात् वां युवां शश्वद्भिर्बहुभिर्वाजैरन्नैर्हविर्लक्षणैः आववृतीय आवर्तयामि ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६