मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९३, ऋक् ७

संहिता

सो अ॑ग्न ए॒ना नम॑सा॒ समि॒द्धोऽच्छा॑ मि॒त्रं वरु॑ण॒मिन्द्रं॑ वोचेः ।
यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळ॒ तद॑र्य॒मादि॑तिः शिश्रथन्तु ॥

पदपाठः

सः । अ॒ग्ने॒ । ए॒ना । नम॑सा । सम्ऽइ॑द्धः । अच्छ॑ । मि॒त्रम् । वरु॑णम् । इन्द्र॑म् । वो॒चेः॒ ।
यत् । सी॒म् । आगः॑ । च॒कृ॒म । तत् । सु । मृ॒ळ॒ । तत् । अ॒र्य॒मा । अदि॑तिः । शि॒श्र॒थ॒न्तु॒ ॥

सायणभाष्यम्

हे अग्ने सत्वं एना एनेन मनसा अन्नेन अस्मदीयेन हविषा समिद्धः सन् दीप्तः सन् मित्रं वरुणं इन्द्रं च अच्छवोचेः अभिब्रूयाः अयमस्म- दीयोरक्षणीयइति कथय । वयं यदागोपराधं सीमिति परिग्रहार्थीयः सीं सर्वतोवाङ्मनःकायैश्चकृम कृतवन्तोवयं तत्तस्मादागसः सुमृळ अस्मान् सुष्ठु रक्ष । तच्चागः अर्यमा अदितिः मित्रादयश्च शिश्रयन्तु अस्मत्तोवियोजयन्तु ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६