मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९४, ऋक् १

संहिता

इ॒यं वा॑म॒स्य मन्म॑न॒ इन्द्रा॑ग्नी पू॒र्व्यस्तु॑तिः ।
अ॒भ्राद्वृ॒ष्टिरि॑वाजनि ॥

पदपाठः

इ॒यम् । वा॒म् । अ॒स्य । मन्म॑नः । इन्द्रा॑ग्नी॒ इति॑ । पू॒र्व्यऽस्तु॑तिः ।
अ॒भ्रात् । वृ॒ष्टिःऽइ॑व । अ॒ज॒नि॒ ॥

सायणभाष्यम्

हे इन्द्राग्नी इयं पूर्व्यस्तुतिः पूर्व्या मुख्यास्तुतिः अस्य मन्मनः स्तोतुः अस्माद्वसिष्ठात् वां युवाभ्यां युवयोरर्थं अभ्रात् मेघात् वृष्टिरिव बह्वी सती अजनि प्रादुर्भूता तां शृणुतमित्युत्तरत्र संबन्धः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७