मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९४, ऋक् २

संहिता

शृ॒णु॒तं ज॑रि॒तुर्हव॒मिन्द्रा॑ग्नी॒ वन॑तं॒ गिरः॑ ।
ई॒शा॒ना पि॑प्यतं॒ धियः॑ ॥

पदपाठः

शृ॒णु॒तम् । ज॒रि॒तुः । हव॑म् । इन्द्रा॑ग्नी॒ इति॑ । वन॑तम् । गिरः॑ ।
ई॒शा॒ना । पि॒प्य॒त॒म् । धियः॑ ॥

सायणभाष्यम्

हे इन्द्राग्नी जरितुः स्तोतुः हवमाह्वानं युवां शृणुतं श्रुत्वा च गिरस्तदीयास्तुतिर्वनतं संभजतम् तथा ईशाना ईश्वरौ युवां धियः अनुष्ठि- तानि कर्माणि पिप्यतं तत्स्थैः फलैः पूरयतम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७