मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९४, ऋक् ३

संहिता

मा पा॑प॒त्वाय॑ नो न॒रेन्द्रा॑ग्नी॒ माभिश॑स्तये ।
मा नो॑ रीरधतं नि॒दे ॥

पदपाठः

मा । पा॒प॒ऽत्वाय॑ । नः॒ । न॒रा॒ । इन्द्रा॑ग्नी॒ इति॑ । मा । अ॒भिऽश॑स्तये ।
मा । नः॒ । री॒र॒ध॒त॒म् । नि॒दे ॥

सायणभाष्यम्

हे नरानेताराविन्द्राग्नी नोस्मान् पापत्वाय पापवत्वाय हीनभावाय मारीरधतं मावशीकुरुतम् । तथा अभिशस्तये शत्रुभिः कृतायाभि- शंसनाय मारीरधतं मावशीकुरुतम् । तथा निदे निंदकाय यजमानाय नोस्मान् मारीरधतं मावशीकुरुतम् ॥ ३ ॥ चातुर्विंशिकेहनि प्रातः सवनेच्छावाकस्य इन्द्रेअग्नेत्ययं षळहस्तोत्रियसंज्ञकस्तृचः सूत्रितञ्च-इन्द्रेअग्नानमोबृहत्ताहुवेययोरिदमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७