मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९४, ऋक् ४

संहिता

इन्द्रे॑ अ॒ग्ना नमो॑ बृ॒हत्सु॑वृ॒क्तिमेर॑यामहे ।
धि॒या धेना॑ अव॒स्यवः॑ ॥

पदपाठः

इन्द्रे॑ । अ॒ग्ना । नमः॑ । बृ॒हत् । सु॒ऽवृ॒क्तिम् । आ । ई॒र॒या॒म॒हे॒ ।
धि॒या । धेनाः॑ । अ॒व॒स्यवः॑ ॥

सायणभाष्यम्

अवस्यवः रक्षणकामाः वयं इन्द्रे देवे अग्ना अग्नौ च बृहत् बृंहणं वर्धकं हविर्लक्षणमन्नं सुवृक्तिं सुप्रवृत्तां स्तुतिंच आ ईरयामहे अभिप्रेर- यामः । तथा धिया कर्मणा युक्ताः वाङ्नामैतत् अप्रगीताः स्तुतिवाचश्च अभि प्रेरयामः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७