मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९४, ऋक् ५

संहिता

ता हि शश्व॑न्त॒ ईळ॑त इ॒त्था विप्रा॑स ऊ॒तये॑ ।
स॒बाधो॒ वाज॑सातये ॥

पदपाठः

ता । हि । शश्व॑न्तः । ईळ॑ते । इ॒त्था । विप्रा॑सः । ऊ॒तये॑ ।
स॒ऽबाधः॑ । वाज॑ऽसातये ॥

सायणभाष्यम्

ता हितौ खलु इन्द्राग्नी शश्वन्तः बहवः विप्रसोमेधाविनोजनाः ऊतये रक्षणाय इत्था इत्थमनेन प्रकारेण ईळते स्तुवन्ति । तथा सबाधः समानं बाधमानाः प्रस्परं बाध्यमानाः जनाः वाजसातये अन्नलाभाय तावेवेन्द्राग्नी ईळते स्तुवन्ति यद्वा वाजसातिरिति सङ्ग्रामनाम सङ्ग्रामार्थम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७