मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९४, ऋक् ६

संहिता

ता वां॑ गी॒र्भिर्वि॑प॒न्यव॒ः प्रय॑स्वन्तो हवामहे ।
मे॒धसा॑ता सनि॒ष्यवः॑ ॥

पदपाठः

ता । वा॒म् । गीः॒ऽभिः । वि॒प॒न्यवः॑ । प्रय॑स्वन्तः । ह॒वा॒म॒हे॒ ।
मे॒धऽसा॑ता । स॒नि॒ष्यवः॑ ॥

सायणभाष्यम्

विपन्यवः स्तोत्रमिच्छन्तः प्रयस्वन्तः हविर्लक्षणेनान्नेनोपेताः सनिष्यवः सनि धनमात्मनइच्छन्तोवयं मेधसाता मेधानां यागानां सातौ संभजने निमित्तभूते सति हे इन्द्राग्नी ता तौ वां युवां गीर्भिः स्तुतिभिः हवामहे आह्वयामहे ॥ ६ ॥ अमावास्यायामैन्द्राग्नस्यहविषः इन्द्राग्नीअवसेत्यनुवाक्या सूत्रितञ्च-इन्द्राग्नीअवसागतंगीर्भिर्विप्रः प्रमतिमिच्छमानइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७