मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९४, ऋक् ७

संहिता

इन्द्रा॑ग्नी॒ अव॒सा ग॑तम॒स्मभ्यं॑ चर्षणीसहा ।
मा नो॑ दु॒ःशंस॑ ईशत ॥

पदपाठः

इन्द्रा॑ग्नी॒ इति॑ । अव॑सा । आ । ग॒त॒म् । अ॒स्मभ्य॑म् । च॒र्ष॒णि॒ऽस॒हा॒ ।
मा । नः॒ । दुः॒ऽशंसः॑ । ई॒श॒त॒ ॥

सायणभाष्यम्

हे चर्षणीसहा चर्शणीनां मनुष्याणां शत्रुभूतानामभिभवितारौ हे इन्द्राग्नी अस्मभ्यं स्तोतृभ्योदेयेन अवसा अन्नेनसह आगतं आगच्छतम् दुःशंसोदुष्टाभिशंसनः पारुष्यवादी शत्रुश्च नोस्मान् माईशत ईशिष्ट अस्मान् बाधितुं मा शक्रोतु ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८