मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९४, ऋक् ९

संहिता

गोम॒द्धिर॑ण्यव॒द्वसु॒ यद्वा॒मश्वा॑व॒दीम॑हे ।
इन्द्रा॑ग्नी॒ तद्व॑नेमहि ॥

पदपाठः

गोऽम॑त् । हिर॑ण्यऽवत् । वसु॑ । यत् । वा॒म् । अश्व॑ऽवत् । ईम॑हे ।
इन्द्रा॑ग्नी॒ इति॑ । तत् । व॒ने॒म॒हि॒ ॥

सायणभाष्यम्

हे इन्द्राग्नी गोमत् गोभिर्युक्तं हिरण्यवत् हिरण्यैः सुवर्णौर्युक्तम् अस्वैश्चोपेतं यद्वसु वां युवां ईमहे याचामहे तद्वसु युवयोः प्रसादात् वयं वनेमहि संभजेमहि ॥ ९ ॥ चातुर्विंशिकेहनि प्रातःसवने अच्छावाकश्त्रै यत्सोमआसुतइत्यारंभणीया अहर्गणेषुच द्वितीयादिष्वहस्सु एषा प्रातःसवने तेनैवशंसनीया सूत्रितञ्च-यत्सोमआसुतेनरइत्यारंभणीयाः शस्त्वेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८