मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९४, ऋक् १०

संहिता

यत्सोम॒ आ सु॒ते नर॑ इन्द्रा॒ग्नी अजो॑हवुः ।
सप्ती॑वन्ता सप॒र्यवः॑ ॥

पदपाठः

यत् । सोमे॑ । आ । सु॒ते । नरः॑ । इ॒न्द्रा॒ग्नी इति॑ । अजो॑हवुः ।
सप्ति॑ऽवन्ता । स॒प॒र्यवः॑ ॥

सायणभाष्यम्

सोमे सुते अभिषुते सति नरः कर्मणां नेतारः ऋत्विजः सपर्यवः परिचरणकामाः सन्तः सप्तीवन्ता प्रशस्ताश्वौ इन्द्राग्नीइन्द्रमग्निं च यद्यदा अजोहवुरभिह्वयन्ते तदा युवामागच्छतमितिशेषः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८