मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९४, ऋक् ११

संहिता

उ॒क्थेभि॑र्वृत्र॒हन्त॑मा॒ या म॑न्दा॒ना चि॒दा गि॒रा ।
आ॒ङ्गू॒षैरा॒विवा॑सतः ॥

पदपाठः

उ॒क्थेभिः॑ । वृ॒त्र॒हन्ऽत॑मा । या । म॒न्दा॒ना । चि॒त् । आ । गि॒रा ।
आ॒ङ्गू॒षैः । आ॒ऽविवा॑सतः ॥

सायणभाष्यम्

वृत्रहन्तमा वृत्राणामावरकाणां हन्तृतमौ मन्दाना मोदमानौ या याविन्द्राग्नी उक्थेभिः शस्त्रैः गिरा च स्तुत्या च आविवासतः परिचर्येते व्यत्ययेन कर्मणि कर्तृप्रत्ययः चिदितिचार्थे आङ्गुषैरन्यैश्च स्तोत्रैः यावाविवासतः परिचर्येते तौ युवां आगच्छतमिति- शेषः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८