मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ९६, ऋक् ३

संहिता

भ॒द्रमिद्भ॒द्रा कृ॑णव॒त्सर॑स्व॒त्यक॑वारी चेतति वा॒जिनी॑वती ।
गृ॒णा॒ना ज॑मदग्नि॒वत्स्तु॑वा॒ना च॑ वसिष्ठ॒वत् ॥

पदपाठः

भ॒द्रम् । इत् । भ॒द्रा । कृ॒ण॒व॒त् । सर॑स्वती । अक॑वऽअरी । चे॒त॒ति॒ । वा॒जिनी॑ऽवती ।
गृ॒णा॒ना । ज॒म॒द॒ग्नि॒ऽवत् । स्तु॒वा॒ना । च॒ । व॒सि॒ष्ठ॒ऽवत् ॥

सायणभाष्यम्

भद्रा कल्याणी भजनीयावा सरस्वती भद्रमित् भद्रमेव कल्याणमेव कृणवत् अस्माकं करोतु । तथा अकवारी अकुत्सितगमना वाजिनीवति चेतति अन्नवती चेतयतु अस्मान् प्रज्ञापयतु । यद्वा मदीयं स्तोत्रं चेतति जानातु । तथ जमदग्निवत् जमदग्निना ऋषिणेव मया गृणाना स्तूयमाना वसिष्ठवत् अर्हार्थेवतिप्रत्ययः वसिष्ठार्हं वसिष्ठस्यानुरूपं स्तुवाना स्तूयमाना च भव ॥ ३ ॥ सरस्वद्देवताके पशौ जनीयन्तइति तिस्रः पशुपुरोडाशहविषां क्रमेणानुवाक्याः सूत्रितञ्च-जनीयन्तोन्वग्रवइतितिस्रो दिव्यंसुपर्णंवा- यसंबृहन्तमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०