मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ६, ऋक् ४५

संहिता

अ॒र्वाञ्चं॑ त्वा पुरुष्टुत प्रि॒यमे॑धस्तुता॒ हरी॑ ।
सो॒म॒पेया॑य वक्षतः ॥

पदपाठः

अ॒र्वाञ्च॑म् । त्वा॒ । पु॒रु॒ऽस्तु॒त॒ । प्रि॒यमे॑धऽस्तुता । हरी॑ ।
सो॒म॒ऽपेया॑य । व॒क्ष॒तः॒ ॥

सायणभाष्यम्

हे पुरुष्टुत बहुभिः स्तुतेन्द्र प्रियमेधस्तुता प्रियमेधैः प्रिययज्ञैः ऋषिभिः स्तुतौ तृतीया कर्मणीति पूर्वपदप्रक्रुतिस्वरत्वम् सुपां सुलुगित्या- कारः ईदृशौ हरी अश्वौ सोमपेयाय सोमपानार्थं त्वा त्वां अर्वाञ्चं अस्मदभिमुखं वक्षतः वहताम् ॥ ४५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७