मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् १४

संहिता

अधी॑व॒ यद्गि॑री॒णां यामं॑ शुभ्रा॒ अचि॑ध्वम् ।
सु॒वा॒नैर्म॑न्दध्व॒ इन्दु॑भिः ॥

पदपाठः

अधि॑ऽइव । यत् । गि॒री॒णाम् । याम॑म् । शु॒भ्राः॒ । अचि॑ध्वम् ।
सु॒वा॒नैः । म॒न्द॒ध्वे॒ । इन्दु॑ऽभिः ॥

सायणभाष्यम्

हे शुभ्राः शोभमानामरुतः गिरीणां पर्वतानां अधीव उपरीव यद्यदा यामं युष्मदीयं रथं अचिध्वं गमनसाधनैरश्वादिभिरुपचितं कुरुथ तदानीं सुवानैरभिषूयमाणैरिन्दुभिः सोमैर्मन्दध्वे मादयध्वे ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०