मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् २३

संहिता

वि वृ॒त्रं प॑र्व॒शो य॑यु॒र्वि पर्व॑ताँ अरा॒जिनः॑ ।
च॒क्रा॒णा वृष्णि॒ पौंस्य॑म् ॥

पदपाठः

वि । वृ॒त्रम् । प॒र्व॒ऽशः । य॒युः॒ । वि । पर्व॑तान् । अ॒रा॒जिनः॑ ।
च॒क्रा॒णाः । वृष्णि॑ । पौंस्य॑म् ॥

सायणभाष्यम्

अराजिनः राज्ञा केनचित् स्वामिना अनधिष्ठिताः यद्वा राजा स्वामी अस्य नविद्यते इत्यराजा इन्द्रः तद्युक्ता वृष्णि वीर्यवत् पौंस्यं बलं चक्राणाः कुर्वाणामरुतः वृत्रं आवरकमसुरं मेघं वा पर्वशः पर्वणि पर्वणि भेदेन विययुः विशिष्टं वधमगमयन् तथा पर्वतान् गिरींश्च विशिष्टं वधं प्रापयन् ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२