मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७, ऋक् २४

संहिता

अनु॑ त्रि॒तस्य॒ युध्य॑त॒ः शुष्म॑मावन्नु॒त क्रतु॑म् ।
अन्विन्द्रं॑ वृत्र॒तूर्ये॑ ॥

पदपाठः

अनु॑ । त्रि॒तस्य॑ । युध्य॑तः । शुष्म॑म् । आ॒व॒न् । उ॒त । क्रतु॑म् ।
अनु॑ । इन्द्र॑म् । वृ॒त्र॒ऽतूर्ये॑ ॥

सायणभाष्यम्

त्रितस्याप्त्यस्य एतत्संज्ञस्य युध्यतः शत्रून्संप्रहरतोराजर्षेः शुष्मं परेषां शोषकं बलं मरुतः अन्वावन् साहाय्यार्थमन्वगच्छन् यद्वा अनुगुणमरक्षन् उतापिच क्रतुं तदीयं कर्म चारक्षन् अपिच वृत्रतूर्ये वृत्रवधार्थे सङ्ग्रामे इन्द्रं च अन्वावन् अरक्षन् ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२