मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १२, ऋक् १५

संहिता

अ॒भि वह्न॑य ऊ॒तयेऽनू॑षत॒ प्रश॑स्तये ।
न दे॑व॒ विव्र॑ता॒ हरी॑ ऋ॒तस्य॒ यत् ॥

पदपाठः

अ॒भि । वह्न॑यः । ऊ॒तये॑ । अनू॑षत । प्रऽश॑स्तये ।
न । दे॒व॒ । विऽव्र॑ता । हरी॒ इति॑ । ऋ॒तस्य॑ । यत् ॥

सायणभाष्यम्

वह्रयोवोढारऋत्विजः ऊतये रक्षणार्थं प्रशस्तये प्रशस्त्यर्थंच अभ्यनूषत इन्द्रमभ्यस्तुवन् नु स्तुतौ कुटादिः हे देव दानादिगुणयुक्तेन्द्र नेति संप्रत्यर्थेसंप्रति विव्रता विविधकर्माणौ हरी तदीयावश्वौ ऋतस्य यज्ञस्य सत्यस्य वा संबंधि यत् स्तोत्रं हविर्वा विद्यते तदभिलक्ष्य त्वा वहतइतिशेषः ॥ १५||

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः