मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् ९

संहिता

उ॒तो पति॒र्य उ॒च्यते॑ कृष्टी॒नामेक॒ इद्व॒शी ।
न॒मो॒वृ॒धैर॑व॒स्युभि॑ः सु॒ते र॑ण ॥

पदपाठः

उ॒तो इति॑ । पतिः॑ । यः । उ॒च्यते॑ । कृ॒ष्टी॒नाम् । एकः॑ । इत् । व॒शी ।
न॒मः॒ऽवृ॒धैः । अ॒व॒स्युऽभिः॑ । सु॒ते । र॒ण॒ ॥

सायणभाष्यम्

उतो अपिच वशी वशयिता एकइत् एकएव कृष्टीनां मनुष्याणां पतिः पालयितेति यइन्द्रउच्यते कैः नमोवृधैः नमसा स्तोत्रेण हविषा वा वर्धयितृभिः अवस्युभिः रक्षणेच्छुभिः सत्वं पूर्वोक्ते सुतेभिषुते सोमे रण रमस्व । यद्वा हे स्तोतः तमिन्द्रं सुते सोमे स्नुहि रणतिः शब्दार्थः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः