मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् १५

संहिता

यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्वा॒वति॑ वृत्रहन् ।
यद्वा॑ समु॒द्रे अन्ध॑सोऽवि॒तेद॑सि ॥

पदपाठः

यत् । श॒क्र॒ । असि॑ । प॒रा॒ऽवति॑ । यत् । अ॒र्वा॒ऽवति॑ । वृ॒त्र॒ऽह॒न् ।
यत् । वा॒ । स॒मु॒द्रे । अन्ध॑सः । अ॒वि॒ता । इत् । अ॒सि॒ ॥

सायणभाष्यम्

हे शक्रेन्द्र परावति दूरदेशे यद्यदि असि भवसि हे वृत्रहन् यद्यदिवा अर्वावति समीपे भवसि वर्तसे यद्वा यदिवा समुद्रे जलधावंत- रिक्षे वा वर्तसे तस्मात्सर्वस्मात्स्थानादागत्य अन्धसः अन्नस्य सोमलक्षणस्य पानेन अवितेदसि रक्षितैव भवसि ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः