मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् १८

संहिता

त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत ।
तमिद्व॑र्धन्तु नो॒ गिरः॑ स॒दावृ॑धम् ॥

पदपाठः

त्रिऽक॑द्रुकेषु । चेत॑नम् । दे॒वासः॑ । य॒ज्ञम् । अ॒त्न॒त॒ ।
तम् । इत् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ । स॒दाऽवृ॑धम् ॥

सायणभाष्यम्

त्रिकद्रुकेषु त्रिकद्रुकानाम ज्योतिर्गौरायुरिति त्रीण्याभिप्लविकान्यहानि तेषु देवासो देवाः चेतनं चेतयितारमिन्द्रं यज्ञं यष्टव्यं अन्तत अतन्वताकृषत तनोतेर्लङि छान्दसोविकरणस्य लुक् तनिपत्योश्छन्दसीत्युपधालोपः । तमित् तमेवेन्द्रं नोस्माकं गिरः स्तुतयश्र्व वर्धन्तु वर्धयन्तु । कीदृशं सदावृधं सर्वदस्तोतृणां वर्धयितारम् ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०