मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् २८

संहिता

अ॒भि स्व॑रन्तु॒ ये तव॑ रु॒द्रासः॑ सक्षत॒ श्रिय॑म् ।
उ॒तो म॒रुत्व॑ती॒र्विशो॑ अ॒भि प्रयः॑ ॥

पदपाठः

अ॒भि । स्व॒र॒न्तु॒ । ये । तव॑ । रु॒द्रासः॑ । स॒क्ष॒त॒ । श्रिय॑म् ।
उ॒तो इति॑ । म॒रुत्व॑तीः । विशः॑ । अ॒भि । प्रयः॑ ॥

सायणभाष्यम्

अभिस्वरंतु अभिगच्छंतु ते । हे इन्द्र तवानुचरा: रुद्रासोरुद्रपुत्रा येमरुत: संति । अपिच ते श्रियं श्रयणीयमिमं यज्ञं सक्षत सचंतु प्राप्नुवन्तु । उतो अपिच मरुत्वतीर्मरुद्धिर्युद्क्ता: विश: अन्यापि दैवी: प्रजा: अन्ननामैतत् अस्मदीयं हविर्लक्षणमन्नमभिगच्छन्तु ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२