मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् ३०

संहिता

अ॒यं दी॒र्घाय॒ चक्ष॑से॒ प्राचि॑ प्रय॒त्य॑ध्व॒रे ।
मिमी॑ते य॒ज्ञमा॑नु॒षग्वि॒चक्ष्य॑ ॥

पदपाठः

अ॒यम् । दी॒र्घाय॑ । चक्ष॑से । प्राचि॑ । प्र॒ऽय॒ति । अ॒ध्व॒रे ।
मिमी॑ते । य॒ज्ञम् । आ॒नु॒षक् । वि॒ऽचक्ष्य॑ ॥

सायणभाष्यम्

प्राचि प्राचीने प्रागायते यज्ञगृहे अध्वरे हिंसारहिते यज्ञे प्रयति गच्छति प्रवर्तमाने सति अयमिन्द्र: प्रवर्तमानं तं यज्ञं आनुषक् आनुष्क्तमानुपू- र्व्येण विचक्ष्य विशेषेण दृष्ट्वा मिमीते निष्पादयति किमर्थे दीर्घायायताय चक्षसे दर्शनाय । यद्वा द्रष्टव्याय फलाय ॥ ३० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२