मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १३, ऋक् ३१

संहिता

वृषा॒यमि॑न्द्र ते॒ रथ॑ उ॒तो ते॒ वृष॑णा॒ हरी॑ ।
वृषा॒ त्वं श॑तक्रतो॒ वृषा॒ हवः॑ ॥

पदपाठः

वृषा॑ । अ॒यम् । इ॒न्द्र॒ । ते॒ । रथः॑ । उ॒तो इति॑ । ते॒ । वृष॑णा । हरी॒ इति॑ ।
वृषा॑ । त्वम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । वृषा॑ । हवः॑ ॥

सायणभाष्यम्

हे इन्द्र ते त्वदीय: अयं रथ: वृषा कामानां वर्षिता उतो अपिच तव हरी अश्वौ वृपणा वृषणौ वर्षितारौ हे शतक्रतो बहुकर्मन् बहुप्रज्ञेन्द्र त्वं च वृषा वर्षिता कामानां तथा हवस्त्वद्विषयमाह्वानं च वृषा वर्षिता त्वद्विषयमाह्वानमपि कामान्वर्षति किमु वक्तव्यं त्वदीयारथादयोवर्षन्तीति भाव: ॥ ३१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३