मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १४, ऋक् १०

संहिता

अ॒पामू॒र्मिर्मद॑न्निव॒ स्तोम॑ इन्द्राजिरायते ।
वि ते॒ मदा॑ अराजिषुः ॥

पदपाठः

अ॒पाम् । ऊ॒र्मिः । मद॑न्ऽइव । स्तोमः॑ । इ॒न्द्र॒ । अ॒जि॒र॒ऽय॒ते॒ ।
वि । ते॒ । मदाः॑ । अ॒रा॒जि॒षुः॒ ॥

सायणभाष्यम्

अपां समुद्राणामूर्मिस्तरंगः मदन्निव यथा माद्यन् उपर्युपरिजायते हे इन्द्र स्तोमस्त्वदीयं स्तोत्रं तथा अजिरायते अजिरः क्षिप्रगामी सइवाच- रति । अपिच ते त्वदीया मदाः स्तोत्रजन्याः सोमपानजन्याश्च विअराजिषुः विशेषेण राजन्ते दीप्यन्ते ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५