मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १४, ऋक् १५

संहिता

अ॒सु॒न्वामि॑न्द्र सं॒सदं॒ विषू॑चीं॒ व्य॑नाशयः ।
सो॒म॒पा उत्त॑रो॒ भव॑न् ॥

पदपाठः

अ॒सु॒न्वाम् । इ॒न्द्र॒ । स॒म्ऽसद॑म् । विषू॑चीम् । वि । अ॒ना॒श॒यः॒ ।
सो॒म॒ऽपाः । उत्ऽत॑रः । भव॑न् ॥

सायणभाष्यम्

हे इन्द्र त्वं सोमपाः सोमस्य पाता भूत्वा उत्तरः उत्कृष्टतरोभवन् असुन्वां सोमाभिषवहीनां संसदं जनसंहतिं विषूचीं परस्परविरोधेन विषु नाना गन्त्रीं व्यनाशयः विशेषेण नाशयसि ॥ १५ ॥

तम्वभीति त्रयोदशर्चं तृतीयं सूक्तं औष्णिहमैन्द्रं पूर्वोक्तावेवऋषी तथाचानुक्रम्यते-तम्वभिसप्तोनौष्णिहमिति । महाव्रते निष्केवल्ये औष्णिह- तृचाशीतावुत्तमावर्जमेतत्सूक्तम् सूत्र्यतेहि-तम्वभिप्रगायतेत्युत्तमामुद्धरतीति । आभिप्लविकेषूक्थ्येषु तृतोयसवने ब्रह्मशस्त्रे आद्यस्तृचोवैकल्पिको- नुरूपः सूत्रितञ्च-तम्वभिप्रगायतवयमुत्वामपूर्व्येति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६