मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १८, ऋक् २

संहिता

अ॒न॒र्वाणो॒ ह्ये॑षां॒ पन्था॑ आदि॒त्याना॑म् ।
अद॑ब्धा॒ः सन्ति॑ पा॒यवः॑ सुगे॒वृधः॑ ॥

पदपाठः

अ॒न॒र्वाणः॑ । हि । ए॒षा॒म् । पन्थाः॑ । आ॒दि॒त्याना॑म् ।
अद॑ब्धाः । सन्ति॑ । पा॒यवः॑ । सु॒गे॒ऽवृधः॑ ॥

सायणभाष्यम्

एषां आदित्यानां पंथाः पन्थानोमार्गाः सुपांसुलुगिति जसःसुः अनर्वाणः अप्रत्यृताः परैरप्रतिगताः अतएव अदब्धाः अहिंसिताश्च सन्ति भवन्ति । हि यस्मादेवं तस्मात्पायवः पालयितारस्तेमार्गाः सुगमे सुखे विषयें वर्धका भवन्तु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५