मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १८, ऋक् ६

संहिता

अदि॑तिर्नो॒ दिवा॑ प॒शुमदि॑ति॒र्नक्त॒मद्व॑याः ।
अदि॑तिः पा॒त्वंह॑सः स॒दावृ॑धा ॥

पदपाठः

अदि॑तिः । नः॒ । दिवा॑ । प॒शुम् । अदि॑तिः । नक्त॑म् । अद्व॑याः ।
अदि॑तिः । पा॒तु॒ । अंह॑सः । स॒दाऽवृ॑धा ॥

सायणभाष्यम्

नोस्माकं पशुं अदितिरदीना अखंडनीयावा देवमाता दिवा अहनि पातु रक्षतु । तथा अद्वयाः बाह्याभ्यंतरभेदेन प्रदारद्वयरहिताः सर्वदैकप्राका- रा कपटरहिता सा अदितिः नक्तं रात्रौ च अस्मदीयं गवादिपशुजातं रक्षतु तथास्मानपि अंहसः पापात् पातु रक्षतु । केनसाधनेन सदावृधा सर्वदा वृद्धिमतात्मीयेन रक्षणेन ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६