मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १८, ऋक् १०

संहिता

अपामी॑वा॒मप॒ स्रिध॒मप॑ सेधत दुर्म॒तिम् ।
आदि॑त्यासो यु॒योत॑ना नो॒ अंह॑सः ॥

पदपाठः

अप॑ । अमी॑वाम् । अप॑ । स्रिध॑म् । अप॑ । से॒ध॒त॒ । दुः॒ऽम॒तिम् ।
आदि॑त्यासः । यु॒योत॑न । नः॒ । अंह॑सः ॥

सायणभाष्यम्

हे आदित्याः अमीवां रोगं अप्सेधत अस्मत्तोपगमयत स्निधं चापसेधकं शत्रुं चापसेधत दुर्मतिं अस्माकं दुःखस्य मंतारं चापसेधत । अपिच हे आदित्यासः आदित्याः नोस्मानंगसः पापात् युयोतन पृथक्कुरुत । यौतेर्लोटि छान्दसः शपःश्लुः तप्तनप्तनथनाश्चेति तस्यतनबादेशः पित्वादनुदा- त्तत्वे धातुस्वरः शिष्यते आमन्त्रितं पूर्वमविद्यमानवदिति पूर्वस्यामंत्रितस्याविद्यमानत्वेन पदादपरत्वान्निघातोनभवति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६