मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १८, ऋक् २१

संहिता

अ॒ने॒हो मि॑त्रार्यमन्नृ॒वद्व॑रुण॒ शंस्य॑म् ।
त्रि॒वरू॑थं मरुतो यन्त नश्छ॒र्दिः ॥

पदपाठः

अ॒ने॒हः । मि॒त्र॒ । अ॒र्य॒म॒न् । नृ॒ऽवत् । व॒रु॒ण॒ । शंस्य॑म् ।
त्रि॒ऽवरू॑थम् । म॒रु॒तः॒ । य॒न्त॒ । नः॒ । छ॒र्दिः ॥

सायणभाष्यम्

हे मित्र हे अर्यमन् हेवरुण हे मरुतः ते सर्वे यूयं अनेहः अहिंसितं नृवत् नृभिःपुत्रादिभिरुपेतं शंस्यं स्तुत्यं त्रिवरूथं त्रयाणां शीतातपवर्षाणां निवारकं यद्वा त्रिभूमिकं छर्दिर्गृहं नः अस्मभ्यं यन्त यच्छत दत्तेत्यर्थः ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८