मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् ५

संहिता

उदु॑ तिष्ठ स्वध्वर॒ स्तवा॑नो दे॒व्या कृ॒पा ।
अ॒भि॒ख्या भा॒सा बृ॑ह॒ता शु॑शु॒क्वनि॑ः ॥

पदपाठः

उत् । ऊं॒ इति॑ । ति॒ष्ठ॒ । सु॒ऽअ॒ध्व॒र॒ । स्तवा॑नः । दे॒व्या । कृ॒पा ।
अ॒भि॒ऽख्या । भा॒सा । बृ॒ह॒ता । शु॒शु॒क्वनिः॑ ॥

सायणभाष्यम्

स्वध्वर शोभनयज्ञ हे अग्ने अभिख्या अभिमुखं गच्छत्याभितः प्रसिद्धयावा बृहता बृहत्या भासा दीध्या शुशुक्वनिःशुचदीप्तौ दीपनशीलस्त्वं स्तवानः स्तोतृभिः स्तूयमानः सन् देव्या द्योतमानया कृपा ज्वालया उत्तिष्ठ तमःपरिहारार्थमुद्गच्छ । उ प्रसिद्धौ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः