मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २३, ऋक् ६

संहिता

अग्ने॑ या॒हि सु॑श॒स्तिभि॑र्ह॒व्या जुह्वा॑न आनु॒षक् ।
यथा॑ दू॒तो ब॒भूथ॑ हव्य॒वाह॑नः ॥

पदपाठः

अग्ने॑ । या॒हि । सु॒श॒स्तिऽभिः॑ । ह॒व्या । जुह्वा॑नः । आ॒नु॒षक् ।
यथा॑ । दू॒तः । ब॒भूथ॑ । ह॒व्य॒ऽवाह॑नः ॥

सायणभाष्यम्

हे अग्ने आनुषक् अनुषक्तं यथाभवति तथा हव्या हव्यानि हवनयोग्यान्यन्नानि जुह्वानः जुह्वन् देवेभ्यःप्रयच्छन् त्वं सुशस्तिभिः शोभनैः स्तोत्रैःसह याहि देवानां हविःप्रदानार्थं गच्छ । अस्य हविःप्रदातृत्वं कथमित्याशंक्याह-यथा त्वं हव्यवाहनः हविषां वोढा देवानां दूतोबभूथ भवसि तथा जुह्वानइत्यन्वयः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०